प्रयोजन Prayojana

The various contextual meanings of the word Prayojana may be 1. Use, employment, application. 2. Use, need, necessity - सर्वैरपि राज्ञां प्रयोजनम् - पञ्चतन्त्रम् .1;  - बाले किमनेन पृष्टेन प्रयोजनम् - कादम्बरी.144. 3. End, aim, object, purpose - (प्रयुज्यते इति । प्र + युज् + ल्युट् ।) कार्य्यम् । - सर्व्वस्यैव हि शास्त्रस्य कर्म्मणो वापि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् केन प्रगृह्यते ॥ - सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते । ग्रन्थादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥ - प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते; पुत्रप्रयोजना दाराः पुत्रः पिण्डप्रयोजनः । हितप्रयोजनं मित्रं धनं सर्वप्रयोजनम् ॥ सुभाषितम् - गुणवत्तापि परप्रयोजना - रघुवंशमहाकाव्यम्.8.31. - प्रयोजनञ्च द्विविधं मुख्यं गौणञ्च । तत्र अन्येच्छानधीनेच्छाविषयत्वं मुख्यप्रयोजनत्वम् । अन्येच्छाधीनेच्छाविषयत्वं गौणप्रयोजनत्वम् । तत्राद्यं सुखं तद्भोगो दुःखाभावश्च द्बितीयं तदुपकारि शयनभोजनादि । तस्य मुख्यप्रयोजनेच्छयैव जन्याया इच्छाया विषयत्वात्तथात्वम् । इति मुक्तिवादे गदाधरः ॥ 4. A means of attaining - एतच्चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम् - मनुस्मृतिः.7.100 5. A cause, motive, occasion - (प्रयुज्यतेऽनेनेति । प्र + युज् + करणे ल्युट् ।) हेतुः । - उद्देशः । - “अथ प्रयोजनम् । प्रयोजनं नाम यदर्थमारभ्यन्त आरम्भाः । यथा यद्यकालमृत्युरस्ति ततोऽहमात्मानमायुष्यैरुपचरिष्याम्यनायुष्यैः परिहरिष्यामि कथं न मामकालमृत्युः प्रसहेतेति !” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥ - दुरधिगमा हि गतिः प्रयोजनानाम् - किरातार्जुनीयम्.10.40 6. Profit, interest 7. The signification, sense (of a word) - नासमवायात् प्रयोजनेन स्यात् - मनुस्मृतिः.4.3.31

Comments

Popular posts from this blog

LSK part 2 - Saṃjñāprakaraṇa - Māheśvarasūtras

Laghusiddhāntakaumudī (LSK) of Varadarāja - Part 1